|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.17. अध्यायः 017
Mahabharata - Vana Parva - Chapter Topics
कृष्णेन् युधिष्ठिरंप्रति साल्वप्रद्युम्नयुद्धवर्णनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वासुदेव उवाच। 3-17-0x(1831)(16339)
एवमुक्त्वा रौक्मिणेयो यादवान्यादवर्षभ।
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ॥ 3-17-1(16340)
उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम्।
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ॥ 3-17-2(16341)
विक्षिपन्नादयंश्चापि धनुः श्रेष्ठं महाबलैः।
तूणखङ्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ॥ 3-17-3(16342)
सविद्युच्छुरितं चापं विहरन्वै तलात्तलम्।
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः ॥ 3-17-4(16343)
तस्य विक्षिपतश्चापं संदधानस्य चासकृत्।
नान्तरं ददृशे कश्चिन्नघ्नितः शात्रवान्रणे ॥ 3-17-5(16344)
मुखस्य वर्णो न विकल्पतेऽस्य
चेलुश्च गात्राणि न चापि तस्य।
सिंहोन्नतं चाप्यभिगर्जतोऽस्य
शुश्राव लोकोऽद्भुतवीर्यमग्र्यम् ॥ 3-17-6(16345)
जलेचरः काञ्चनयष्टिसंस्थो
व्यात्ताननः शत्रुबलप्रमाथी।
वित्रासयन्राजति वाहमुख्ये
साल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ॥ 3-17-7(16346)
ततस्तूर्णं विनिष्पत्य प्रद्युम्नः शत्रुकर्शनः।
साल्वमेवाभिदुद्राव विधित्सुः कलहं नृप ॥ 3-17-8(16347)
अभियानं तु वीरेण प्रद्युम्नेन महारणे।
नामर्षयत संक्रुद्वः साल्वः कुरुकुलोद्वह ॥ 3-17-9(16348)
सरोषमहमत्तो वै कामगादवरुह्य च।
प्रद्युम्नं योधयामास साल्वः परपुरंजयः ॥ 3-17-10(16349)
तयोः सुतुमुलं युद्धं साल्ववृष्णिप्रवीरयोः।
समेता ददृशुर्लोका बलिवासवयोरिव ॥ 3-17-11(16350)
तस्य मायामयो वीर रथो हेमपरिष्कृतः।
सपताकः सध्वजश्च सानुकर्षः स तूणवान् ॥ 3-17-12(16351)
स तं रथवरं श्रीमान्समारुह्य किल प्रभो।
मुमोच बाणान्कौख्य प्रद्युम्नाय महाबलः ॥ 3-17-13(16352)
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे।
प्रद्युम्नो भुजवेगेन साल्वं संमोहयन्निव ॥ 3-17-14(16353)
स तैरभिहतः सङ्ख्ये नामर्यत सौभराट्।
शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम ॥ 3-17-15(16354)
तमापतन्तं बाणौधं स चिच्छेद महाबलः।
ततश्चान्याञ्शरान्दीप्तान्प्रचिक्षेप सुते मम ॥ 3-17-16(16355)
स साल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः।
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ॥ 3-17-17(16356)
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः।
विवेश हृदयं पत्री स पपात भृशहतः ॥ 3-17-18(16357)
तस्मिन्निपतिते वीरे साल्वराजे विचेतसि।
संप्रद्रबन्दानवेन्द्रा दारयन्तो वसुंधराम् ॥ 3-17-19(16358)
हाहाकृतमभूत्सैन्यं साल्वस्य पृथिवीपते।
नष्टसंज्ञे निपतिते तदा सौभपतौ नृपे ॥ 3-17-20(16359)
तत उत्थाय राजेन्द्र प्रतिलभ्य च चेतनाम्।
मुमोच बाणान्सहसा प्रद्युम्नाय महाबलः ॥ 3-17-21(16360)
तेन बाणेन महता प्रद्युम्नः समरे स्थितः।
जत्रुदेशे भृशं विद्धो व्यथितो ददृशे तदा ॥ 3-17-22(16361)
तं स विद्ध्वा महाराज साल्वो रुक्मिणिनन्दनम्।
ननाद सिंहनादं वै नादेनापूरयन्महीम् ॥ 3-17-23(16362)
ततो मोहं समापन्ने तनये मम भारत।
मुमोच बाणांस्त्वरितः पुनरन्यान्दुरात्मवान् ॥ 3-17-24(16363)
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः।
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ॥ 3-17-25(16364)
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-17-1 हरिभिः अश्वैः ॥ 3-17-2 व्यात्ताननमिवान्तकं इति झ. पाठः। अन्वयात् उपगतः ॥ 3-17-3 विक्षिपन् परान्धिक्वुर्वन्। महाहलैः हयैः ॥ 3-17-4 समानं विद्युच्छुरितेन विद्युत्कम्पनेनेति। विद्युच्छुरितम्। तलात्तलं सव्यापसव्यहस्ततलपरिवर्तेन ॥ 3-17-5 विक्षिप्तः कर्षतः ॥ 3-17-6 विकल्पते भिद्यते ॥ 3-17-7 जलेचरः मीनः। सर्वतिमिप्रमाथी इति झ. पाठः। वाहमुख्ये रथषेष्ठे ॥ 3-17-12 सानुकर्षः रथाधस्थकाष्ठं अनुकर्षः सः। रथः तूणवान् ॥ 3-17-16 आपततेति विसर्गलोप आर्षः ॥ 3-17-22 जत्रुदेशे कण्ठमूले ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|